॥ श्रीसूक्तम् ॥

॥ श्रीसूक्तम्‌ ॥

श्री गणेशाय नम:॥ श्रीमहाकालीमहालक्ष्मी महासरस्वती देवाताभ्यो नम:।

ॐ हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम्। चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आ-वह॥१॥

तां म आ-वह जातवेदो लक्ष्मीमनपगामिनीम्। यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम्‌॥२॥

अश्व्पूर्वां रथमध्यां हस्तिनादप्रबोधिनीम्। श्रियं देवीमुपह्र्ये श्रीर्मां देवीर्जुषताम्‌ ॥३॥

कांसोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम्‌। पद्मे स्थितां पद्मवर्णां तामिहोपव्ह्यये श्रियम्‌ ॥४॥

चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम्‌ तां पद्मिनीमीं शरणमहं प्रपद्देऽलक्ष्मीर्मे नश्यतां त्वां वृणे॥५॥

आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्व:। तस्य फलानि तपसा नुदन्तु मायान्तरायाश्च बाह्याऽअलक्ष्मी:॥६॥

उपैतु मां देवसख: कीर्तिश्च मणिंना सह। प्रादुर्भूतोसुराष्ट्रेऽस्मिन्‌ कीर्तिमृध्दिं ददातु मे॥७॥

क्षृप्तिपासामलां ज्येष्ठांअलक्ष्मीं नाशयाम्यहम्‌। अभूतिमसमृध्दिं च सर्वां निर्णुद्द मे गृहात ॥८॥

गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम्‌। ईश्वरीं सर्वभूतांनां तामिहोपव्हये श्रियम्‌ ॥९॥

मनसः काममाकूतिं वाचः सत्यमशीमहि। पशूनां रुपमन्नस्य मयि श्रीः श्रयतां यशः ॥१०॥

कर्दमेन प्रजा भूता मयि संभव कर्दम । श्रियं वासय मे कूले मातरं पद्ममालिनीम्‌ ॥११॥

आपः सृजन्तुस्निग्धानि चिक्लीत वस मे गृहे । नि च देवीं मातरं श्रियं वासय मे कुले॥१२॥

आर्द्रां पुष्करिणीं पुष्टिं पिंगलां पदमालिनीम्‌। चन्द्रां हिरण्यमयीं लक्ष्मीं जातवेदो म आवह॥१३॥

आर्द्रां यः करीणीं यष्टिं सुवर्णां हेमेमालिनीम्‌। सूर्यां हिरण्यमयीं लक्ष्मीं जातवेदो म आवह ॥१४॥

तां म आवह जात वेदो लक्ष्मीमनपगामिनीम्‌। यस्यां हिरण्यं प्रभुतं गावो दास्योऽश्वान्विन्देयं पुरुषानहम्‌॥१५॥

यः शुचि. प्रयतो भूत्वा जुहूयादाज्यमन्वहम्‌। सूक्तं पन्चशर्चं च श्रीकामः सततंजपेत॥१६॥

पद्मानने पद्मऊरु पद्माक्षी पद्मसंभवे। तन्मे भजसि पद्माक्षि येन सौख्य लभाम्यहम्‌॥१७॥

अश्वदायै गोदायै धनदायै महाधने। धनं मे जुषतां देवि सर्वकामांश्च देहि मे॥१८॥

पद्मानने पद्मविपद्मपत्रे पद्मप्रिये पद्मदलायतांक्षी। विश्वप्रिये विश्वमनोऽनुकूले त्वत्पादपद्मं मयि संन्निधत्स्व॥१९॥

पुत्रपौत्रं धन धान्यं हस्त्यश्वादि गवे रथम्‌ प्रजानां भवसी माता आयुष्यमंतं करोतु मे॥२०॥

धनमग्निर्धनं वायुर्धनं सूर्योधनं वसुः। धनमिन्द्रो बृहस्पतिर्वरुणोधनमश्विणौ ॥२१॥

वैनतेय सोमं पिब सोमं पिबतु वृंत्रहा। सोमं धनस्य सोमिनो मह्यं ददातु सोमिनः॥२२॥

न क्रोधो न च मात्सर्यं न लोभो नाशुभा मतिः भवन्ति कृतपुण्यानां भक्तानां श्रीसूक्तं जपेत्‌॥२३॥

सरसिजनिलये सरोजहस्ते धवलतरांशुककगंधमाल्यशोभे भगवति हरिवल्लभे मनोज्ञे त्रिभुवभूतिकरी प्रसीद मह्यम॥२४॥

विष्णु पत्नीं क्षमांदेवीं माधवीं माधवप्रियाम्‌। लक्ष्मी प्रियसखीं देवी नमाम्यच्युतवल्लभाम्‌॥२५॥

महालक्ष्मी च विद्महे विष्णुपत्नी च धीमहि। तन्नो लक्ष्मीः प्रचोदयात्‌॥२६॥

श्रीवर्चस्वमायुऽमारोग्यमाविधाच्छोभमानं महीयते। धान्यं धनं पशुं बहुपुत्रलाभं शतसंवत्सरं दीर्घमायुः॥२७॥